|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.163. अध्यायः 163
Mahabharata - Udyoga Parva - Chapter Topics
अर्जुनादिभिः सर्वैरुलूकद्वारा पृथक्पृथग्दुर्योधनंप्रति प्रतिसन्देशप्रेषणम् ॥ 1 ॥ उलूकेन दुर्योधनंप्रति युधिष्ठिरादिप्रतिसन्देशकथनम् ॥ 2 ॥ दुर्योधनाज्ञया कर्णेन सेनासु युद्धसन्नाहोद्धोषणम् ॥ 3 ॥

Mahabharata - Udyoga Parva - Chapter Text
5-163-0(37493)
सञ्जय उवाच। 5-163-0x(3863)
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभ ।
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ॥ 5-163-1(37494)
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः ।
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥ 5-163-2(37495)
स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् ।
अभीतो युध्यते शत्रून्स वै पुरुष उच्यते ॥ 5-163-3(37496)
परवीर्यं समाश्रित्य यः समाह्वयते परान् ।
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ॥ 5-163-4(37497)
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः ।
स्वयं कापुरुषो मूढ परांश्च क्षेप्तुमिच्छसि ॥ 5-163-5(37498)
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् ।
मरणाय महाप्रज्ञं दीक्षयित्वा विकत्थसे ॥ 5-163-6(37499)
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन ।
न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति हि ॥ 5-163-7(37500)
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे।
हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् । 5-163-8(37501)
कैतव्य गत्वा भरतान्समेत्य
सुयोधनं धार्तराष्ट्रं वदस्व।
तथेत्युवाचार्जुनः सव्यसाची
निशाव्यपाये भविता विमर्दः ॥ 5-163-9(37502)
यद्वा ब्रवीद्वाक्यमदीनसत्वो
मध्ये कुरून्हर्षयन्सत्यसन्धः।
अहं हन्ता सृञ्जयानामनीकं
साल्वेयकांश्चेति ममैष भारः।
कैतव्य गत्वा भरतान्समेत्य
सुयोधनं धार्तराष्ट्रं वदस्व ॥ 5-163-10(37503)
हन्यामहं द्रोणमृतेऽपि लोकं
न ते भयं विद्यते पाण्डवेभ्यः ।
ततो हि ते लब्धमतं च राज्य-
मापद्गताः पाण्डवाश्चेति भावः ॥ 5-163-11(37504)
स दर्पपूर्णो न समीक्षसे त्व-
मनर्थमात्मन्यपि वर्तमानम्।
तस्मादहं ते प्रथमं समूहे
हन्ता समक्ष कुरुवृद्धमेव ॥ 5-163-12(37505)
सूर्योदये युक्तसेनः प्रतीक्ष्य
ध्वजी रथी रक्षत सत्यसन्धम्।
अहं हि वः पश्यतां द्विपमेनं
भीष्मं रथात्पातयिष्यामि बाणैः ॥ 5-163-13(37506)
श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः।
आचितं शरजालेन मया दृष्ट्वा पितामहम् ॥ 5-163-14(37507)
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः।
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ॥ 5-163-15(37508)
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत्।
सत्यां प्रतिज्ञामचिराद्द्रक्ष्यसे तां सुयोधन ॥ 5-163-16(37509)
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा।
नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च॥ 5-163-17(37510)
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च।
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ॥ 5-163-18(37511)
दर्शनस्य च चक्रस्य कृत्स्नस्यापनयस्य च।
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ॥ 5-163-19(37512)
वासुदेवद्वितीये हि मयि क्रुद्धे नराधम।
आशा ते जीविते मूढ राज्ये वा केन हेतुना ॥ 5-163-20(37513)
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते।
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ॥ 5-163-21(37514)
भ्रातॄणां निधनं श्रुत्वा पुत्राणां च सुयोधन ।
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ॥ 5-163-22(37515)
न द्वितीयां प्रतिज्ञां हि प्रतिजानामि कैतव ।
सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ॥ 5-163-23(37516)
युधिष्ठिरोऽपि कैतव्यमुलूकमिदमब्रवीत्।
उलूक मद्वचो ब्रूहि गत्वा तात सुयोधनम् ॥ 5-163-24(37517)
स्वेन वृत्तेन मे वृत्तं नाधिगन्तुं त्वमर्हसि ।
उभयोरन्तरं वेद सूनृतानृतयोरपि ॥ 5-163-25(37518)
न चाहं कामये पापमपि कीटपिपीलकयोः।
किं पुनर्ज्ञातिषु वधं कामयेयं कथं च न ॥ 5-163-26(37519)
एतदर्थं मया तात पञ्च ग्रामा वृताः पुरा।
कथं तव सुदुर्बुद्धे न प्रेक्ष्ये व्यसनं महत् ॥ 5-163-27(37520)
स त्वं कामपरीतात्मा मूढभावाच्च कत्थसे।
तथैव वासुदेवस्य न गृह्णासि हितं वचः । 5-163-28(37521)
किंचेदानीं बहूक्तेन युध्यस्व सह बान्धवैः।
मम विप्रियकर्तारं कैतव्य सह बान्धवैः । 5-163-29(37522)
मम विप्रियकर्तारं कैतव्य ब्रूहि कौरवम् ॥
श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत्। 5-163-30(37523)
भीमसेनस्ततो वाक्यं भूय आह नृपात्मजम् ॥
उलूक मद्वचो ब्रूहि दुर्मतिं पापपूरुषम्। 5-163-31(37524)
शठं नैकृतिकं पापं दुराचारं सुयोधनम् ॥
गृध्रोदरे वा वस्तव्यं पुरे वा नागसाह्वये । 5-163-32(37525)
प्रतिज्ञातं मया यच्च सभामध्ये नराधम ॥
कर्ताहं तद्वचः सत्यं सत्येनैव शपामि ते। 5-163-33(37526)
दुःशासनस्य रुधिरं हत्वा पास्याम्यहं मृधे ॥
सक्थिनी तव भंक्त्वैव हत्वा हि तव सोदनान्। 5-163-34(37527)
सर्वेषां राजपुत्राणामभिमन्युरसंशयम् ।
कर्मणा तोषयिष्यामि भूयश्चैव वचः श्रृणु ॥ 5-163-35(37528)
हत्वा सुयोधन त्वां वै सहितं सर्वसोदरैः ।
आक्रमिष्ये पदा मूर्ध्नि धर्मराजस्य पश्यतः ॥ 5-163-36(37529)
नकुलस्तु ततो वाक्यमिदमाह महीपते।
उलूक ब्रूहि कौरव्यं धार्तराष्ट्रं सुयोधनम् ॥ 5-163-37(37530)
श्रुतं ते गदतो वाक्यं सर्वमेव यथातथम्।
तथा कर्तास्मि कौरव्य यथा त्वमनुशासि मां ॥ 5-163-39aसहदेवोऽपि नृपते इदमाह वचोऽर्थवत् ।
सुयोधन मतिर्या ते वृथैषा ते भविष्यति ॥ 5-163-38(37531)
शोचिष्यसे महाराज सपुत्रज्ञातिबान्धवः ।
इमं च क्लेशमस्माकं हृष्टो यत्त्वं विकत्थसे ॥ 5-163-40(37532)
विराटद्रुपदौ वृद्धावुलूकमिदमूचतुः ।
दासभावं नियच्छेव साधोरिति मतिः सदा।
तौ च दासावदासौ वा पौरुषं यस्य यादृशम् ॥ 5-163-41(37533)
शिखण्डी तु ततो वाक्यमुलूकमिदमब्रवीत् ।
वक्तव्यो भवता राजा पापेष्वभिरतः सदा ॥ 5-163-42(37534)
पश्य त्वं मां रणे राजन्कुर्वाणं कर्म दारुणम् ।
यस्य वीर्यं समासाद्य मन्यसे विजयं युधि ॥ 5-163-43(37535)
तमहं पातयिष्यामि रथात्तव पितामहम्।
अहं भीष्मवधात्सृष्टो नूनं धात्रा महात्मना ॥ 5-163-44(37536)
सोऽहं भीष्मं हनिष्यामि मिषतां सर्वधन्विनाम् ।
धृष्टद्युम्नोऽपि कैतव्यमुलूकमिदमब्रवीत् ॥ 5-163-45(37537)
सुयोधनो मम वचो वक्तव्यो नृपतेः सुतः।
अहं द्रोणं हनिष्यामि सगणं सहबान्धवम् ॥ 5-163-46(37538)
अवश्यं च मया कार्यं पूर्वेषां चरितं महत् ।
कर्ता चाहं तथा कर्म यथा नान्यः करिष्यति 5-163-47(37539)
तमब्रवीद्धर्मराजः कारुण्यार्थं वचो महत्।
नाहं ज्ञातिवधं राजन्कामयेयं कथंचन ॥ 5-163-48(37540)
तवैव दोषाद्दुर्बुद्धे सर्वमेतत्त्वनावृतम् ।
स गच्छ माचिरं तात उलूक यदि मन्यसे ॥ 5-163-49(37541)
इह वा तिष्ठ भद्रं ते वयं हि तव बान्धवाः ।
उलूकस्तु ततो राजन्धर्मपुत्रं युधिष्ठिरम् ॥ 5-163-50(37542)
आमन्त्र्य प्रययौ तत्र यत्र राजा सुयोधनः ।
उलूकस्तत आगमक्य दुर्योधनममर्षणम् ॥ 5-163-51(37543)
अर्जुनस्य समादेशं यथोक्तं सर्वमब्रवीत् ।
वासुदेवस्य भीमस्य धर्मराजस्य पौरुषम् ॥ 5-163-52(37544)
नकुलस्य विराटस्य द्रुपदस्य च भारत ।
सहदेवस्य च वचो धृष्टद्युम्नशिखण्डिनोः।
केशवार्जुनयोर्वाक्यं यथोक्तं सर्वमब्रवीत् ॥ 5-163-53(37545)
कैतव्यस्य तु तद्वाक्यं निशम्य भरतर्षभः ।
दुःशासनं च कर्णं च शकुनिं चापि भारत ॥ 5-163-54(37546)
आज्ञपयत राज्ञश्च बलं मित्रबलं तथा।
यथा प्रागुदयात्सर्वे युक्तास्तिष्ठन्त्यनीकिनः ॥ 5-163-55(37547)
ततः कर्णसमादिष्टा दूताः सन्त्वरिता रथैः ।
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ॥ 5-163-56(37548)
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात्।
आज्ञापयन्तो राज्ञश्च योगः प्रागुदयादिति ॥ ॥ 5-163-57(37549)
इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि त्रिष्टष्ट्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-163-6 वृद्धं बाह्लिकं भीष्मं च ॥ 5-163-10 सत्यसंधो भीष्मः । भीष्मवाक्यमेवाह अहं हन्तेति। हे कैतव्य अहं हन्तेत्यादि मदीयं वाक्यं भरतान् पाण्डवान्प्रति गत्वा वदस्व । किं कृत्वा सुयोधनं समेत्य मदीयं संदेशं दुर्योधनाय श्रावयित्वा पाण्डवान्प्रति कथयेत्यर्थः। तेन दुर्योधनसुखं पाण्डवानां भयं चोदेष्यतीति भावः ॥ 5-163-11 द्रोणमृतेपि द्रोणंविनाप्यसहाय एवाहं लोकं हन्याम्। ततो भीष्मवाक्यात्। ते तव भाव एवंभूतो जात इत्यर्थः ॥ 5-163-12 हन्ता हनिष्यामि। कुरुवृद्धं भीष्मम् ॥ 5-163-13 यो युक्तसेनो ध्वजी रथी तं रक्षतेति योजना ॥ 5-163-19 दर्शनं कर्णादिषु जयनिश्चयः । चक्रं सेनाया आधिक्यम् । अपनयः अस्माकं दूरीकरणम् । एतेषां फलं द्रक्ष्यसि॥ 5-163-25 वेद विद्मि ॥ 5-163-27 हे सुदुर्बुद्धे तव व्यसनं मरणागमं कथमपि न प्रेक्ष्ये इति हेतोः पञ्चग्रामा वृता इति संबन्धः ॥ 5-163-41 साधोः दासभावं नियच्छेव नितरां यच्छेव प्रार्थयावहे । तौ च आवां दासावदासौवेति यस्य तव यादृशं पौरुषं तत्तथैव श्वो द्रक्ष्याव इति शेषः ॥ 5-163-44 वधात् वधहेतोः ॥ 5-163-47 पूर्वेषां चरितं द्रोणवधेन पितृवैरप्रतियातनम् ॥ 5-163-49 अनावृतं विस्पष्टम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|